Students can Download Sanskrit Lesson 21 प्रबन्धः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 10 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः 1

Introduction:
An essay is a piece of prose writing that gives a complete and clean picture of a particular subject. It will be divided into paragraphs. In each paragraph, a particular aspect of the subject is dealt with. An essay include with an introduction, presentation of the subject and conclusion.

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः

पीठिका
प्रकृष्टो बन्धः प्रबन्धः इत्युच्यते । निबन्धः इति अस्य नामान्तरम् । नातिविस्तृतः नातिसंक्षिप्तरूपो प्रबन्धः लघुप्रबन्धः इति कथ्यते। प्रबन्धे सरलानि वाक्यानि अपेक्षितानि। मुख्यतया प्रबन्धाः वर्णनात्मकाः, विचारात्मकाः, आख्यानात्मकाः, व्याख्यानात्मकाः चेति चतुर्धा विभक्ताः। आभाणकादिभिः प्रबन्धाः आकर्षकाः भवन्ति । एतान् सर्वान् अंशान् मनसि निधाय छात्रैः प्रबन्धाः रचनीयाः ।

प्रबन्धे प्रस्तावना, विषयनिरूपणम्, उपसंहारश्चेति निरूपणक्रमः अपेक्षितः। प्रस्तावनायां प्रबन्धविषयस्य उपक्रमः, विषयानिरूपणभागे विषयस्य विस्तारः, उपसंहारभागे प्रबन्धविषयस्य सारांशः च भवेत् । प्रबन्धे वाक्यानां परस्परसम्बन्धः आवश्यकः । उदाहरणार्थम् अत्र केचन प्रबन्धाः प्रदत्ताः ।

परिसरः

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समन्वयः एव परिसरशब्देन सूच्यते । अस्माकं जीवननिर्वहणे परिसरस्य अतीव आवश्यकता अस्ति। नगरीकरणस्य, उद्यमीकरणस्य, जनसंख्यास्फोटस्य च परिणामतः परिसरः दूषितः अस्ति । परिसरमालिन्यानि त्रिविधानि । वायुमालिन्यं जलमालिन्यं, शब्दमालिन्यं च।

वायुमालिन्यं – बृहद्यन्त्रागारेभ्यः सर्वदा निस्सरद्भ्यः कलुषितविषानिलेभ्यः सर्वदा सञ्चरद्भ्यः शतशोऽथसहस्रशः वाहनानां धूमेभ्यः अपि वायुः प्रदूषितः ।

जलमालिन्यम् – यन्त्रागारेभ्यः निष्कास्यमानानि रासायनिक वस्तुयुक्तानि दूषितजलानि, स्नानशौचालयानां मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति। एतेन जलमालिन्यं भवति ।

शब्दमालिन्यम् – यन्त्रागाराणां कर्कशशब्दैः ध्वनिवर्धकानां, विविधकार्याणां, वाहनानां च शब्दैः नित्यं प्रदूषणं वर्धते एव ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः

एवं परिसरप्रदूषणेन नानाविधाः रोगाः समुद्भवन्ति। प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः, कीटाः जलचराश्च महतीं हानिम् अनुभवन्ति। एतस्य प्रतिक्रिया अधुना अवश्यं विधातव्या । एतदर्थं सर्वेजनाः जागरिताः भवेयुः। प्रशासनानि उद्योगपतींश्च बोधयेयुः । परिसरसंरक्षणार्थम् आवश्यककर्माणि कुर्युः ।

सङ्गणकयन्त्रम्

‘कम्प्यूटर्’ यन्त्रस्य सङ्गणकम् इति नामधेयम् अस्ति। ‘चार्ल्स बाबेज्’ इति आङ्ग्लविज्ञानी इदं यन्त्रम् आविष्कृतवान्। अस्मिन् यन्त्रे आन्तरिकयन्त्रभागः, बाह्ययन्त्रभागः इति विभागाः सन्ति । सङ्गणकयन्त्रं बाह्ययन्त्रभागेन सूचनां स्वीकृत्य स्मरणविभागं प्रेषयति। तदा बाह्ययन्त्रभागेन सूचनां विषयं च प्रकटीकरोति ।

सङ्गणकयन्त्रं तु विज्ञानस्य अत्यधिकं विकसितं बुद्धिमत् यन्त्रम् । सङ्गणकयन्त्रस्य आविष्कारेण विज्ञानक्षेत्रे महती क्रान्तिः अभवत् । आधुनिकशिक्षणे सङ्गणकयन्त्रज्ञानम् अनिवार्यम् । मुद्रणम्, सञ्चारः, सैन्यं, तन्त्रज्ञानम्, विज्ञानं, संस्कृतिः, चिकित्सालय इत्यादिक्षेत्रेषु अस्य व्यापकः प्रभावः अस्ति। अस्य गणनशक्तिः, स्मरणशक्तिः असाधारणमस्ति। गणकयन्त्रे नूतनमाविष्कारमेव अन्तर्जालम् । संस्कृतभाषा उत्तमसङ्गणकभाषा इति विश्वविद्यालयेन प्रयोगद्वारा प्रमाणीकृतमस्ति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः

सङ्गणकयन्त्रस्य प्रभावेण मानवाः अलसाः जाताः। सर्वाण्यपि कार्याणि कर्तुं सङ्गणकयन्त्रम् आश्रयन्ति। एतेन बुद्धिविकासः अवरुद्धः भवति। अतः अस्य उपयोगं जागरूकतया कुर्युः ।

समाचारपत्रम्

विश्वस्मिन् प्रतिक्षणं विविधाः घटनाः सम्भवन्ति। एतासां घटनानां विचारान् सर्वेभ्यः जनेभ्यः शीघ्रं प्रापयितुं समूहमाध्यमाः प्रयतन्ते। तेषु समाचारपत्रम् अन्यतमम् । आधुनिकयुगे अनेकाः पत्रिकाः अतीवजनप्रियाः सन्ति। एताः प्रतिदिनं भूतभविष्यद्वर्तमानविचारान् सर्वत्र प्रापयन्ति। दैनिक-पाक्षिक-मासिक-वार्षिकरूपेण वार्तापत्रिकाः भवन्ति। एताः प्रादेशिक-राष्ट्रिय-अन्तर्राष्ट्रियाः वार्ताः प्रकटीकुर्वन्ति।

राजकीय-सामाजिक-धार्मिक-शैक्षणिक-क्रीडा-मनोरञ्जनादि विविध विचाराः पत्रिकासु भवन्ति । पत्रिकाणां पठनेन ज्ञानाभिवृद्धिः भवति। सर्वासु भाषासु . पत्रिकाः प्रकटीकुर्वन्ति । संस्कृतेऽपि सुधर्माः, सम्भाषणसन्देशः, गीर्वाणवाणी इत्यादिपत्रिकाः सन्ति ।

KSEEB Solutions for Class 10 Sanskrit नंदिनी Chapter 21 प्रबन्धः

अधुना पत्रिकारङ्गोऽपि कलुषितः इव प्रतिभाति। तत्र वार्ताः पक्षपातिन्यः इव दृश्यन्ते। वस्तुनिष्ठाः विश्वसनीयाः विषयाः विरलाः भवन्ति। तथा न भवेयुः। देशस्य समाजस्य च हितचिन्तकाः वार्तापत्रिकाः भवन्तु।

राष्ट्रियोत्सवाः पर्वाणि च अस्माकं देशः 1947 तमे वर्षे स्वतन्त्रम् अभवत् । जनाः पर्वरूपेण अस्य उत्सवस्य अनुष्ठानं कुर्वन्ति। अनेके वीराः देशस्य स्वातन्त्र्यप्राप्तसमये स्वप्राणान् अत्यजन् । अस्मिन् दिने तेषां संस्मरणं क्रियते। राजधान्याः देहल्याः रक्तदुर्गात् प्रधानमन्त्री भाषणं करोति। अस्माभिः स्वदेशस्य स्वतन्त्रता अखण्डता च रक्षणीया। अस्माकं विद्यालये अपि स्वातन्त्र्योत्सवः आचर्यते। प्रधानाचार्यः प्रातः ध्वजारोहणं करोति। छात्राः च मिलित्वा राष्ट्रगीतं गायन्ति। विद्यालये मधुरं अस्मभ्यं दीयन्ते ।