Students can Download 2nd PUC Sanskrit Previous Year Question Paper March 2015, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.
Karnataka 2nd PUC Sanskrit Previous Year Question Paper March 2015
अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।
I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)
प्रश्न 1.
भारतवर्षे कति कुलपर्वताः सन्ति?
उत्तरम्
सप्त।
प्रश्न 2.
विक्रमादित्य कथां का कथयति?
उत्तरम्
पुत्थलिका।
प्रश्न 3.
के निर्विमर्शाः?
उत्तरम्
भीरवः।
प्रश्न 4.
मूर्तिमती सत्क्रिया का?
उत्तरम्
शकुन्तला।
प्रश्न 5.
मृगपोतकस्य नाम किम्?
उत्तरम्
दीर्घापाङ्गः।
प्रश्न 6.
राणाप्रतापस्य पूर्वजानाम् अमात्यः कः?
उत्तरम्
भामशाहः।
प्रश्न 7.
शान्त्याः पत्युः नाम किम्?
उत्तरम् सुन्दरः।
प्रश्न 8.
कः कर्णस्य रक्तम् अपिबत् ?
उत्तरम्
वज्रकीटः।
प्रश्न 9.
अर्थान् कथं चिन्तयेत् ?
उत्तरम्
बकवत्।
प्रश्न 10.
कृष्णशास्त्रि महोदयेन आरब्धा पत्रिका का?
उत्तरम्
प्रबुद्धकर्नाटकम्।
II. द्वित्रैः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (पञ्चनामेव) (2 × 5 = 10)
प्रश्न 11.
भारतवर्षस्य प्रसिद्ध पञ्चनदीनां नामानि लिखत।
प्रश्न 12.
विक्रमादित्यः राक्षसं किम् उपदिशति?
प्रश्न 13.
प्रव्राजकः निजान् अनुचरान् किम् उवाच?
प्रश्न 14.
बिल्ला: राणाप्रतापं कथं साहाय्यम् अकुर्वन्?
प्रश्न 15.
महाश्वेतायाः वपुषि यौवनं कथं पदं कृतम्?
प्रश्न 16.
शान्तिः किमर्थं तरुणं द्रष्टुम् आगतवती?
प्रश्न 17.
शास्त्रिणां पाठन क्रमः।
III. पाठनाम उल्लिख्य श्लोकानाम् अनुवाद कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)
प्रश्न 18.
भारतस्यास्य वर्षस्य नवभेदान्निबोधत ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ।।
प्रश्न 19.
प्रातर्बुद्रध्वा च तत्सर्वं जहास सकलो जनः ।
ननन्द स वणिक् सा च तत्सुता प्राप्तसत्पतिः ।।
प्रश्न 20.
कास्विदवगुण्ठनवती नातिपरिस्फुट शरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ।।
प्रश्न 21.
अस्त्रप्रयोगैश्च मयोपदिष्टैः प्रभुत्वमत्ता सकलास्त्वया नु ।
नामावशेषाः सततं क्रियन्ते यदीह दत्ता गुरुदक्षिणा स्यात्।
प्रश्न 22.
मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत् ।
मन्त्रवत् रक्षयेत् गूढं कार्ये चापि नियोजयेत् ॥
IV. एतेषां पाठनाम उल्लिख्य कः कं प्रति अवदत्? इति संस्कृतभाषया लिखत। (चतुर्णामेव) (2 × 4 = 8)
प्रश्न 23.
मया परार्थमेतत् शरीरं दीयते स्वेच्छया।
प्रश्न 24.
सुखानि ते भर्तृकुलदेवताः वितरन्तु।
प्रश्न 25.
मम हस्ते प्रभूतं धनं विद्यते।
प्रश्न 26.
‘भगवन् । किमभिधानः’?
प्रश्न 27.
अहो । भग्नप्रतिज्ञोऽस्मि।
प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज आनेतव्य एव ।।
III. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (चतुर्णामेव) (4 × 5 = 20)
प्रश्न 29.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः?
प्रश्न 30.
‘निर्विमर्शा हि भीखः’ इति शीर्षिकां समर्थयत।
प्रश्न 31.
दुष्यन्तस्य पात्रचित्रणं कुरुत ।
प्रश्न 32.
रोटिकाप्रसङ्गः।
प्रश्न 33.
तपोधनं युवानं दृष्ट्वा महाश्वेता किम् अचिन्तयत् ?
प्रश्न 34.
सा शान्तिः।
प्रश्न 35.
कर्ण परशुरामयोः संवादः।
प्रश्न 36.
शास्त्रिणाम् शिष्यवात्सल्यम् ।
VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)
प्रश्न 37.
द्वीपेषु सर्वेषु …………. प्रयान्ति । (नराः)
प्रश्न 38.
भवादृशा गुरवः अतीव …………. । (विरलाः)
प्रश्न 39.
नवाम्रवापी …………. न पश्येत् । (नरकम्)
प्रश्न 40.
…………. गन्धम् अभ्यजिघ्रम् । (कुसुम)
(नरकम्, नराः, कुसुमः, विरलाः)
VII. संयोजयत। (1 × 4 = 4)
प्रश्न 41.
क – ख
(a) पुण्डरीकः – (i) दिल्लीश्वरः
(b) अकबर बादशाह – (ii) वृक्षः
(c) पुष्पितः – (iii) कामवशगः
(d) परिव्राङ् – (iv) ऋषिकुमारः
उत्तरम्
(b) अकबर बादशाह
(c) पुष्पितः
(d) परिव्राङ्
(a) पुण्डरीकः
VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत। (त्रयाणामेव) (3 × 1 = 3)
प्रश्न 42.
चिन्तातुराणां न सुखं न निद्रा।
उत्तरम्
केषां।
प्रश्न 43.
परिव्राट् मौनं त्ययक्त्वा उक्तवान्।
उत्तरम्
किं।
प्रश्न 44.
कविकुलगुरुः कालिदासः।
उत्तरम्
कः।
प्रश्न 45.
वैदेशिकाः वाणिज्यार्थम् आगच्छन्ति स्म।
उत्तरम्
किमर्थम्।
प्रश्न 46.
विमर्शकेन कृतीनामध्ययनं सम्यक् कर्तव्यम्।
उत्तरम्
केन।
IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)
प्रश्न 47.
सन्धिं विभजत /योजयत। (त्रयाणामेव)
नोत्साहे, द्वीपोऽयम्, मयैवम्, अस्त्र + अभ्यासः = , धौत: + च =
उत्तरम्
नोत्साहे = न + उत्साहे – गुण सन्धिः
द्वीपोऽयम् = द्वीपो + अयं – पूर्वरूप
मयैवम् = मया + एवं – वृद्धि
अस्त्र + अभ्यासः = अस्त्राभ्यासः – सवर्णदीर्घ
धौतः + च = धौतश्च – विसर्ग/श्चुत्व
प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत। (त्रयाणामेव)
मदीयं कपोलम्, ज्ञानस्य भण्डारः, वस्त्रापणम्, योगिवेषम्, वणिजःकन्या।
उत्तरम्
मदीयं कपोलम् – मत्कपोलम्
ज्ञानस्य भण्डारः – ज्ञानभण्डारः
वस्त्रापणम् – वस्त्राणाम् आपणम्
योगिवेषम् – योगिनः वेषम्
वणिजःकन्या – वणिक्कन्या
प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
नगरी, राज्ञः, प्रजानाम्, पुत्थलिका।
उत्तरम्
नगरी – स्त्रीलिङ्गः, प्रथम विभक्तिः , एकवचनम्.
राज्ञः – पुल्लिङ्गः, षष्ठी विभक्तिः, एकवचनम्
प्रजानाम् – स्त्रीलिङ्गः, षष्ठी विभक्तिः, बहुवचनम्
पुत्थलिका- स्त्रीलिङ्गः, प्रथम विभक्तिः, एकवचनम्
प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
ददर्श, भक्षय, लभते, कुर्वन्ति
उत्तरम्
ददर्श – लिट्, प्रथम, एकवचनम्
भक्षय. – लोट्, प्रथम, एकवचनम्
लभते – लट्, प्रथम, एकवचनम्
कुर्वन्ति – लट्, प्रथम, बहुवचनम्
प्रश्न 51.
पदपरिचयं कुरुत। (त्रयाणामेव)
त्यक्त्वा, अगम्य, प्रवेशयितुम्, अध्येतन्यः, त्यक्तवान्।
उत्तरम्
त्यक्त्वा – क्त्वा प्रत्ययः
अगम्य – ल्यप् प्रत्ययः
प्रवेशयितुम् – तुमुन् प्रत्ययः
अध्येतन्यः – तव्यत् प्रत्ययः
त्यक्तवान् – क्तवतु प्रत्ययः
प्रश्न 52.
प्रयोगं परिवर्तयत।
देवाः जन्म इच्छन्ति।
उत्तरम्
देवैः जन्म इष्यते।
अथवा
त्वं मौनं त्यक्त्वा उक्तवान्।
उत्तरम्
त्वया मौनं त्यक्त्वा उक्तम्।
प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत। चिच्छेद पापस्य कपिः निग्रहज्ञः इव क्रुधा।
अथवा
अस्याः आननारविन्दे अपूर्वाकर्षणम् आसीत्।
प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत।
पुरा केरले शिवगुरु-आर्याम्बा दम्पत्योः एकः पुत्रः अजायत । भगवतः शिवस्य अनुग्रहात् जातस्य तस्य शङ्कर इति नाम कृतम् । सः बाल्ये एव वेदाध्ययनं समाप्य, सन्यासं स्व्यकरोत् । मातुः आज्ञया नर्मदातीरं गत्वा गुरोः सकाशे शास्त्राणि अधीतवान् । अनन्तरं भारतस्य चतुर्षु दिक्षु मठं संस्थाप्य
सनातनधर्मस्य गरिमानम् अवर्धयत । स एव श्री शङ्करभगवत्पादाः।
प्रश्न 55.
संस्कृतभाषया अनुवदत।
Banares is on the banks of the river Ganga. It is famous for its temple, silk and ghats. It is a famous pilgrim centre in India. It is one of the most ancient cities. People from all parts of the country visit this place, they take bath in the river Ganga. They visit Vishwanatha temple. They pray him with devotion.
प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।। (5 × 1 = 5)
एकः नृपः एकं वानरं परिपुष्यति । सः वानराय फलानि दुग्धं च यच्छति । वानरः अपि नृपस्य आज्ञापालकः सेवकः भवति । यदा सः शयनं करोति तदा सः वानरः सुप्तं नृपं व्यजनेन अनिलं वाहयति। शीतलस्य अनिलस्य स्पर्शेन नृपः सुखम् अनुभवति । तदा एकः मधुकरः नृपस्य मुखे उपविशति । इदंदृष्टा वानरः क्रोधेन समीपमेव स्थितं, नृपस्य खड्गं हस्ते धृत्वा मधुकर प्रहरति। मधुकरः अपधावति, दूरं गच्छति च । खड्गस्य प्रहारेण बराकः नृपः पञ्चत्वं गच्छति । अतः बुधाः कथयन्ति “पण्डितः अहितः वरम्, अपि तु हितकारकः मूर्खः न वरम्”।
प्रश्नाः
1. कः वानरं परिपुष्यति?
उत्तरम्
नृपः।
2. शयने नृपः कथं सुखम् अनुभवति?
उत्तरम्
शीतलस्य अनिलस्य स्पर्शेन।
3. मधुकरः कुत्र उपविशति?
उत्तरम्
नृपस्य मुखे।
4. क्रुद्धः वानरं किं करोति?
उत्तरम्
खड्गेन मधुकरं प्रहरति।
5. बुधाः किं कथयन्ति?
उत्तरम्
“पण्डितः अहितः वरम्, अपि तु हितकारकः मूर्खः न वरम्।
अथवा
धनं प्रेषयितुं पितरं पत्रं लिखत।