Students can Download 2nd PUC Sanskrit Previous Year Question Paper June 2017, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.
Karnataka 2nd PUC Sanskrit Previous Year Question Paper June 2017
अङ्काः 100
समय : 3 घण्टा 15 निमेषाः।
I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)
प्रश्न 1.
विश्वस्य मातरः काः ?
उत्तरम्
नद्यः ।
प्रश्न 2.
विक्रमादित्यः कथं देशान्तरं निर्गतः?
उत्तरम्
योगिवेषेण ।
प्रश्न 3.
प्रव्राजकः वणिजः गृहं किमर्थम् अगच्छत् ?
उत्तरम्
भिक्षार्थम् ।
प्रश्न 4.
पौरवः कः?
उत्तरम्
दुष्यन्तः ।
प्रश्न 5.
राणाप्रतापस्य पूर्वजानाम् अमात्यः कः?
उत्तरम्
भामाशाहः ।
प्रश्न 6.
महाश्वेता स्नातुं कुत्र आगच्छति?
उत्तरम्
अच्छोदसरः ।
प्रश्न 7.
शान्त्याः पत्युः नाम किम् ?
उत्तरम्
सुन्दरः ।
प्रश्न 8.
कर्णस्य गुरुः कः?
उत्तरम्
परशुरामः ।
प्रश्न 9.
कामधेनुगुणा का?
उत्तरम्
विद्या
प्रश्न 10.
कृष्णशास्त्रिणां माता का?
उत्तरम्
शङ्करम्मा
II. द्वित्रः वाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (पञ्चनामेव) (5 × 2 = 10)
प्रश्न 11.
नगरवासिभिः जनैः राक्षसः किम् उक्तः?
प्रश्न 12.
प्रव्राजकः निजान् अनुचरान् किम् उवाच ?
प्रश्न 13.
भारतसर्वकारः राणाप्रतापाय कथं गौरवम् असूचयत् ?
प्रश्न 14.
‘शान्त्याः ‘ सौन्दर्य वर्णयत ।
प्रश्न 15.
वज्राख्यः कीटः किं करोति?
प्रश्न 16.
सत्पुरुषव्रतम् किम्?
प्रश्न 17.
शास्त्रिणाम् औदार्यम् ।
III. पाठनाम उल्लिख्य श्लोकानाम् अनुवाद कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणाम्) (3 × 3 = 9)
प्रश्न 18.
भारतस्यास्य वर्षस्य नवभेदान्निबोधत ।
समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥
प्रश्न 19.
तदेतां वीक्ष्य दुःखं मे जातं भक्तो हि मे भवान् ।
तेनैवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ॥
प्रश्न 20.
कास्विदवगुण्ठनवती नातिपरिस्फुटशरीर लावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥
प्रश्न 21.
विजृम्भते वेदसरस्वतीमयं तपोवनं निर्मलकर्म शोभितम् ।
विनीतशिष्यैरपनीतकल्मषैरधिष्ठितं विश्वगुणाभि रञ्जितम् ॥
प्रश्न 22.
कामक्रोधौ तथा लोभं स्वादं शृङ्गारकौतुके ।
अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥
IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् ? इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)
प्रश्न 23.
अद्यप्रभृति मनुष्य भक्षणं परित्यज ।
प्रश्न 24.
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ।
प्रश्न 25.
कुत्रापि गत्वा धनं संग्रहिष्यामि ।
प्रश्न 26.
तथापि यदि कुतूहलम् तत् कथयामि ।
प्रश्न 27.
अहो ! भग्नप्रतिज्ञोऽस्मि ।
प्रश्न 28.
सः यत्रकुत्रापि भवतु कालेज् आनेतव्यः एव ।
V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत । (पञ्चानामेव) (5 × 5 = 25)
प्रश्न 29.
पुराणेषु भारतं कथं वर्णितम् ?
प्रश्न 30.
विक्रमादित्यस्य परोपकारगुणं वर्णयत ।
प्रश्न 31.
दीर्घापाङ्गप्रसङ्गः ।
प्रश्न 32.
महाराणाप्रतापेन अनुभूता कष्टपरम्परा ।
प्रश्न 33.
पुण्डरीकस्य जन्मवृत्तान्तं लिखत ।
प्रश्न 34.
सा शान्तिः ।
प्रश्न 35.
कर्ण-परशुरामयोः संवादः ।
प्रश्न 36.
शास्त्रिणाम् शिष्यवात्सल्यम् ।
VI. मञ्जूषातः सूक्तपदं चित्वा रिक्तं स्थानं पूरयत। (4 × 1 = 4)
प्रश्न 37.
……….. ददाति चेत् सन्ततिच्छेदो भविष्यति । (पुत्र)
प्रश्न 38.
वैरिणां …………. समुद्रोपमम् आसीत् । (सैन्यम्)
प्रश्न 39.
भगवतः अशेषत्रिभुवनसुन्दरं …………. आसीत् । (रूपम्)
प्रश्न 40.
मे हृदयात् किल्बिषमेकं …………. । (निर्मूलितवती)
(रूपम्, निर्मूलितवती, सैन्यम्, पुत्रम्)
VII. संयोजयत । (4 × 1 = 4)
प्रश्न 41.
क – ख
(a) परिव्राङ् – (i) गुप्तधनम्
(b) प्रजापतिः – (ii) पापम्
(c) किल्बिषम् – (iii) ब्रह्मा
(d) विद्या – (iv) कामवशगः
उत्तरम्
(iv) कामवशगः
(iii) ब्रह्मा
(ii) पापम्
(i) गुप्तधनम्
VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत । (त्रयाणामेव) (3 × 1 = 3)
प्रश्न 42.
कन्या मञ्जूषायां प्रवेशिता ।
उत्तरम्
कुत्र ।
प्रश्न 43.
उदयसिंहः प्रतापी राजा आसीत् ।
उत्तरम्
कः ।
प्रश्न 44.
अम्बया सह स्नातुम् अभ्यागमम् ।
उत्तरम्
कया ।
प्रश्न 45.
भाषासाहित्यविद्यार्थिभिः संस्कृतभाषा अध्येतव्या एव ।
उत्तरम्
का ।
प्रश्न 46.
ऋषयः प्रसन्नमुखवर्णाः दृश्यन्ते ।
उत्तरम्
कीदृशाः ।
IX. यथानिर्देशं कुरुत । (चतुर्णामेव) (4 × 3 = 12)
प्रश्न 47.
सन्धिं विभजत ./योजयत। (त्रयाणामेव)
द्वीपोऽयम्, एकैकम्, वनानिलेन, यत् + अहम्, वयसि + एव
ततः + ततः, तथा + एव, हि + अकाले
उत्तरम्
द्वीपो + अयम्, एक + एकम्, वन + अनिलेन
यदहम्, वयस्येव
प्रश्न 48.
विग्रहवाक्यं / समस्तपदं लिखत । (त्रयाणामेव)
ज्ञानभण्डारः, महासैन्यम्, हिमवतः दक्षिणम्, अरण्यस्य मार्जालः, गुरोः उपदेशः ।
उत्तरम्
ज्ञानस्य भण्डारः, महत् सैन्यम्, हिमवद्दक्षिणम्, अरण्यमार्जालः, गुरूपदेशः ।
प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत । (द्वयोरेव)
पुत्थलिका, पादयोः, पौरवैः, वचनात् ।
उत्तरम्
पुत्थलिका – स्त्रीलिङ्गः, प्रथमा विभक्तिः, एकवचनम्
पादयोः – पुल्लिङ्गः, षष्ठी विभक्तिः, द्विवचनम्
पौरवैः – पुल्लिङ्गः, तृतीया विभक्तिः, बहुवचनम्
वचनात् – नपुंसकलिङ्गः, पञ्चमी विभक्तिः, एकचनम्
प्रश्न 50.
लकार-पुरुष-वचनानि लिखत । (द्वयोरेव)
कुर्वन्ति, बभूव, अब्रवीत्, वर्जयेत् ।
उत्तरम्
कुर्वन्ति – लट्, प्रथम, बहु
बभूव – लिट्, प्रथम, एकवचनम्
अब्रवीत् – लङ्, प्रथम, एकवचनम्
वर्जयेत् – विधिलिङ्, प्रथम, एकवचनम्
प्रश्न 51.
पदपरिचयं कुरुत । (त्रयाणामेव)
पतित्वा, भवितुम्, प्राप्तवान्, परिहृत्य, निर्गतः ।
उत्तरम्
क्त्वान्तः, तुमुन्नान्ताव्ययम्, क्तवतु प्रत्ययान्तः भूतकृदन्तः
ल्यबन्तः, क्त प्रत्ययान्तः भूतकृद्तः ।
प्रश्न 52.
प्रयोगं परिवर्तयत ।
विक्रमादित्यः कालं नयति ।
उत्तरम्
विक्रमादित्येन कालः नीयते ।
अथवा
विधिना दर्शितं प्रभुत्वम् ।
उत्तरम्
विधिः दर्शितवान् प्रभुत्वम् ।
प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत ।
चिच्छेद पापस्य कषिः निग्रहज्ञ इव क्रुधा ।
अथवा
प्रत्याययतीव मे हृदयम् ।
प्रश्न 54.
कन्नड भाषया-आङ्ग्लभाषया वा अनुवदत। [5]
भारतीय संस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना, श्रेष्ठा, प्रेष्ठा च इति सर्वैः विद्वद्भिः स्वीक्रियते। यदा विश्वस्य अन्येषां देशानां निवासिनः सभ्यताहीनः, संस्कृतिविहीनाटः च स्वजीवनयापनं कुर्वन्तः आसन्, तस्मिन्नेव काले भारतीयसंस्कृतिः परमोत्कृष्टा विराजमाना च आसीत्। अत्र विचारस्वातन्त्र्यं, सदाचारपालन, धार्मिकता, दुःखसहिष्णुता, ज्ञानप्राधान्यं विश्वबन्धुत्वस्थापनं चेत्यादयः विशेषगुणाः विराजन्ते। अत एव भारतीयसंस्कृतिः सर्वैः प्रशंस्यते ।
प्रश्न 55.
संस्कृतभाषया अनुवदत। [5]
Once the sages went to the King Janaka and asked him – ‘Oh king, how can you perform both protection of the people and accomplishing Yoga simultaneously?” The king, replied ‘Oh great sages, I think, you are questioning me, though you yourself know it. Everything hap pens in this world by the grace of Almighty. I discharge my duties with the feeling that nothing is mine. So this is possible.
प्रश्न 56.
इमं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । (5 × 1 = 5)
कश्चित् राजा चोरं शूलमारोपयितुम् सूचयति । बुद्धिमुपयुज्य जीवामि इति चिन्तयन् चोरः वदति – ‘प्रभो ! अहं सुवर्णकृषि जानामि । सुवर्णबीजानि मया सह वर्तते। क्षेत्राणि : सज्जीकुर्वन्तु, भवन्तः एव बीजानि वपन्तु । तदनन्तरं मां शूलम् आरोपयत्तु । तेन जगतः कल्याणं भवतु’ इति। राजा तथैवाङ्गी करोति । क्षेत्राणि सिद्धानि भवन्तिः। ‘यः कदापि यत्किमपि चौर्यं नाकृतवान् तादृशः सुवर्णबीजानि वपेत् इति नियम्’ एवं चोरः वदति। आबाल्यं स्वकीय चौर्य स्मरन्तः तूष्णीं भवन्ति सर्वेऽपि । तदा ‘यः कोऽपि चोरः नास्ति चेत् अहमेव किमर्थं शूलमारोपयितव्यः’ इति सः पृच्छति । राजा लज्जया तं मोचयति ।
प्रश्नाः
1. कः चोरं शूलमारोपयितुम् सूचयति ?
उत्तरम्
राजा
2. कः सुवर्णकृषि जानाति?
उत्तरम्
चोरः
3. सुवर्णबीजवपनस्य नियमः कः?
उत्तरम्
यः कदापि यत्किमपि चौर्यं नाकृतवान् तादृशः सुवर्णबीजानि वपेत् ।
4. किं स्मरन्तः सर्वेऽपि तूष्णीं भवन्ति ?
उत्तरम्
स्वकीय चौर्यं स्मरन्तः ।
5. कः ‘लज्जया चोरं मोचयति?
उत्तरम्
राजा
अथवा
संस्कृतोत्सव कार्यक्रमविषयमधिकृत्य मित्रं प्रति पत्रं लिखत ।